गोविन्दाष्टकम्
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगण-रिंगण-लोलमनायासं परमायासम्।
मायाकल्पित-नानाकारमनाकारं भुवनाकारं
क्ष्मामा नाथमनाथं प्रणमत गोविंद परमानन्दम्॥1॥
मृत्स्नामत्सीहेति यशोदाताडन्-शैशव-सन्त्रासं
व्यादित-वक्त्रालोकित-लोकालोक-चतुर्दशलोकालिम्।
लोक्त्रयपुरमूलस्तम्भं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविंदं परमानन्दम्॥2॥
त्रैविष्टप-रिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्।
वैमल्य-स्फुटचेतोवृत्ति-विशेषाभासमनाभासं
शैवं केवलशान्तं प्रणमत गोविंदं परमानन्दम्॥3॥
गोपालं भूलीलाविग्रहगोपालं कुलगोपालम्।
गोपीखेलन-गोवर्धन-धृतिलीलालालित-गोपालम्।
गोभिर्निगदित-गोविंद-स्फुटनामानं बहुनामान
गोपीगोचरदूरं प्रणमत गोविंदं परमानन्दम्॥4॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुर-निर्धूतोधत्-धूलीधूसर-सौभाग्यम्।
श्रद्धाभक्ति-गृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्॥5॥
स्नानव्याकुल-योषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्सन्तीरथ दिग्वस्त्राह्युपदातुमुलाकर्षन्तम्।
निर्धूतद्वय-शोक-विमोहं बुद्धं बुद्धेरन्तस्थं |
सत्तामात्रशरीरं प्रणमत गोविंदं परमानन्दम्॥6॥
कान्तं कारणकारणमादिमनादिं कालमनाभासं
कालिन्दीगत-कालियशिरसि मुहुर्नृत्यन्तंनृत्यन्तम्।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्॥7॥
वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वन्देऽहं
कुन्दाभामल-मन्दस्मेर-सुधानन्दं सुहृदानन्दम्।
वन्द्याशेष-महामुनिमानस-वन्द्यानंन्द वन्देऽहं
वन्द्याशेषगुणाब्धिं प्रणमत गोविंद परमानन्दम्॥8॥
गोविन्दाष्टकमेतदधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधव विष्णो गोकुल नायक कृष्णेति।
गोविंदांघ्रिसरोज-ध्यानसुधाजल-धौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति॥9॥
॥ इति श्रीमच्छंकराचार्यविरचितं गोविन्दाष्टकं समाप्तम् ॥